top of page
महाराज्ञीस्तोत्रम् १ (या द्वादशार्कपरिमण्डितमूर्तिरेकां) | Maharagyi stotram 1
महाराज्ञीस्तोत्रम्
ॐ या द्वादशार्कपरिमण्डितमूर्तिरेकां
सिंहासनस्थितिमतीमुरगैर्वृतां च ।
देवीमनक्षगतिमीश्वरतां प्रपन्नां तां
नौमि भर्गवपुषीं परमार्थराज्ञीम् ॥ १॥
यत्पादपङ्कजतलेऽमरमूर्धमौलि-
न्यस्तेन्द्रनीलमणिसन्ततयः पतन्ति ।
किञ्जल्कपानरतमुग्धमधुव्रतत्वं
राज्ञी सदा भगवती जननीव नोऽव्यात् ॥ २॥
द्वारं यदीयचरणाम्बुजयुग्मनिर्यद्-
रेणुस्मृतिर्विवृतमस्ति महोदयानाम् ।
अम्बाधिकप्रणयपूरितचित्तवृत्ती
राज्ञी शुभं वितनुयान्मम सेवकस्य ॥ ३॥
दम्भं विहाय भवदङ्घ्रिनतिं तनोति यो
राज्ञि ! देवि न विमुञ्चति मुक्तकान्ताम् ।
तं रूपहीनमपि कामभिवाधिग…bottom of page
